|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.7. अध्यायः 007
Mahabharata - Bhishma Parva - Chapter Topics
मेरोरुत्तरभागस्थोत्तरकुरुवर्णनम् ॥ 1 ॥ तथा मेरोः पूर्वभागस्थभद्राश्वखण्डवर्णनम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-7-0x(3969)(38877)
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय।
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥ 6-7-1(38878)
संजय उवाच। 6-7-2x(3970)
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे।
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥ 6-7-2(38879)
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः।
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥ 6-7-3(38880)
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप ।
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥ 6-7-4(38881)
ये क्षरन्ति सदा क्षीरं षड्रसं चामृपोतमम् ।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ 6-7-5(38882)
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका ।
सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप ।
पुष्करिष्यः शुभास्तत्र सुखस्पर्शा मनोरमाः ॥ 6-7-6(38883)
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः।
शुक्लाभिजनसंयन्नाः सर्वे सुप्रियदर्शनाः॥ 6-7-7(38884)
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः।
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ॥ 6-7-8(38885)
मिथुनं जायते काले समं तच्च प्रवर्धते।
तुल्यरूगुणोपेतं समवेषं तथैव च ॥ 6-7-9(38886)
एवमेवानुरूपं च चक्रवाकसमं विभो ।
निरापगाम ते लोका नित्यं मुदितमानसाः ॥ 6-7-10(38887)
दशवर्षसहस्राणि शशवर्षशतानि च ।
जीवन्ति ते महाराज न चान्योन्यं जहत्युत ॥ 6-7-11(38888)
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः ।
तान्निहेरन्तीह मृतान्दरीषु प्रक्षिपन्ति च ॥ 6-7-12(38889)
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः।
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥ 6-7-13(38890)
तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशांपते ।
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥ 6-7-14(38891)
कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः ।
द्रुमश्च योजनोत्सेधः सिद्धचारणसेवितः ॥ 6-7-15(38892)
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः।
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥ 6-7-16(38893)
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः ।
चन्द्रशीतलगात्र्यश्च नृत्तिगीतविशारदाः ॥ 6-7-17(38894)
दशवर्षसहस्राणि तत्रायुर्भरतर्षभ ।
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥ 6-7-18(38895)
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु।
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥ 6-7-19(38896)
सर्वकामफलः पुण्यः सिद्धचारणसेवितः।
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥ 6-7-20(38897)
योजनानां सहस्त्रं च शतं च भरतर्षभ ।
उत्सेधो वृक्षराजस्य दिवस्पृङ्भनुजेश्वर ॥ 6-7-21(38898)
अरत्नीनां सहस्रं च शतानि दश पञ्च च ।
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥ 6-7-22(38899)
पतमानानि तान्युर्वी कुर्वन्ति विपुलं स्वनम् ।
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम् ॥ 6-7-23(38900)
तस्या जम्बाः फलरसो नदी भूत्वा जनाधिप ।
मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून् ॥ 6-7-24(38901)
तत्र तेषां मनःशान्तिर्न पिपासा जनाधिप ।
तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥ 6-7-25(38902)
तत्र जाम्बूनदं नाम कनकं देवभूषणम् ।
इन्द्रगोपकसंकाशं जायते भास्वरं तु तत् ॥ 6-7-26(38903)
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ।
तथा माल्यवतः श्रृङ्गे दृश्यते हव्यवाट् सदा ॥ 6-7-27(38904)
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ।
तथा माल्यवतः श्रृङ्गे पूर्वपूर्वानुगण्डिका ॥ 6-7-28(38905)
योजनानां सहस्राणि पञ्चषण्माल्यवानथ ।
महारजतसंकाशा जायन्ते तत्र मानवाः ॥ 6-7-29(38906)
ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः ।
तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्ध्वरेतसः ।
रक्षणार्थं तु भूतानां प्रविश्यन्ते दिवाकरम् ॥ 6-7-30(38907)
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च।
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥ 6-7-31(38908)
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च।
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥ ॥ 6-7-32(38909)
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि सप्तमोऽध्यायाः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-7-3 मधुफलाः स्वादुफलाः ॥ 6-7-7 शुक्लाभिजनो विष्णुभक्तजनस्तेन संपमास्तत्सङ्गिनः ॥ 6-7-10 चक्रवाकौ सहचरौ पक्षिदम्पती ॥ 6-7-14 मूर्धाभिषेको मूर्धाभिषिक्तम्। मुख्यमिति यावत् ॥ 6-7-28 गण्डिका क्षुद्रपर्वतः ॥ 6-7-29 पञ्चषट् पञ्चाधिकाः षट् एकादशेत्यर्थः । महारजतं काञ्चनं तत्संकाशाः ॥ 6-7-30 ब्रह्मलोकेति। ये इतः कर्मणा ब्रह्मलोकं गतास्ते ततश्च्युताः सन्तो माल्यवति पर्वते जन्म लब्धा भूतानां रक्षणार्थं तपस्तप्त्वा दिवाकरं प्रविशन्ते तत्समीपं प्राप्नुवन्ति ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|